द्वौ सन्निषद्य यन्मन्त्रयेते राजा तद्वेद वरुणस्तृतीयः ॥

द्वौ सन्निषद्य यन्मन्त्रयेते राजा तद्वेद वरुणस्तृतीयः ॥ (ऋग्वेदः ४-१६-२)

सम्पाद्यताम्

उभौ रहस्येन यत् चिन्तयेतां तत् तृतीयेन प्रकाशेन वरुणेन ज्ञायते एव ।

अस्माकं सर्वेषाम् अन्तरङ्गे अपि बहूनि रहस्यानि अन्तर्निहितानि भवन्ति । सामान्यतः तानि दुष्टानि भवन्ति । अतः एव तानि रहस्यानि ! शुद्धाः भावाः कुतः गोपनीयाः भवेयुः ?! विविधैः कारणैः कमपि तानि न वदाम । रहस्योद्घाटनेन आत्मनः व्यक्तित्वस्य मौल्यं न्यूनं भवेत्, सम्बन्धाः नष्टाः भवेयुः, दण्डः अपि प्राप्येत !! कदाचित् समानदोषयुक्ताः परस्परं वार्तालापेन समाधानं प्राप्नुयुः । तृतीयेन न ज्ञातम् इति निरातङ्काः भवामः । किन्तु अस्माभिः सर्वैः अपि सः सर्वव्यापी परमात्मा विस्मर्यते ! सा अनन्तशक्तिः देवालये क्रैस्तालये यवनालये वा बद्धा अस्ति इति धैर्यं वहामः !! वस्तुतः सा शक्तिः बद्धा न भविष्यति । अस्माकम् अन्तरङ्गे अपि विद्यते इत्यतः रहस्यं न किञ्चित् भवति । अस्माभिः जागरूकैः भवितव्यम् । कर्मणः फलम् अस्माभिः एव भोक्तव्यं खलु !