धर्मादर्थ प्रभवति...
सुभाषितम्
धर्मादर्थः प्रभवति धर्मात् प्रभवते सुखम् ।
धर्मेण लभते सर्वं धर्मसारमिदं जगत् ॥ ।
रामायणम्, अरण्यकाण्डः ९/३०
dharmādarthaḥ prabhavati dharmāt prabhavate sukham ।
dharmeṇa labhate sarvaṃ dharmasāramidaṃ jagat ॥
पदच्छेदः
धर्मात् अर्थः प्रभवति धर्मात् प्रभवते सुखम् धर्मेण लभते सर्वं धर्मसारम् इदं जगत् ॥
तात्पर्यम्
धर्मात् धनं वर्धते । धर्मात् सुखस्य अपि वृद्धिः भवति । धर्मेण व्यवह्रियते चेत् सर्वमपि प्राप्यते । एवम् इदं जगत् धर्मसारभूतं विद्यते ।
आङ्ग्लार्थः
Righteousness brings wealth. Wealth brings happiness. Righteousness brings everything. In fact, the essence of the world is righteousness.