ध्येयपथिक साधकऽऽ...


ध्येयपथिकसाधकऽऽ

कार्यपथे साधयऽऽ
मृदु हसन् मधुकिरन् मातरं सदा स्मरन् ॥


जीवनं न शाश्वतं, वैभवं न हि स्थिरम्
स्वार्थलेपनं विना, यत्कृतं हि तच्चिरम्
सरलता स्वजीवनेऽऽ
चिन्तने सदोच्चताऽऽ
समाजपोषिता वयं समाजपोषकाश्चिरम् ॥ ॥१॥


यच्च मनसि चिन्त्यते, यच्च कीर्त्यते गिरा
तच्च मूर्तरूपताम्, एति नित्यजीवने
जनन्यनन्यचरणयो:ऽऽ
समर्पितस्वजीवना:ऽऽ
ध्येयसाधनव्रता वयं भवेम सङ्गता: ॥ ॥२॥


स्मरत्विहाग्रजन्मनां, त्यागबलिसमर्पणम्
सिंहकुलसमुद्भवा: सिंहविक्रमा वयम्
सन्तु कष्टकोटयोऽऽ
भवतु विघ्नवर्षणंऽऽ

सकृत्प्रतिज्ञका वयं भजेम नो पलायनम् ॥ ॥३॥
- श्री जनार्दन हेगडे


"https://sa.wikiquote.org/w/index.php?title=ध्येयपथिक_साधकऽऽ...&oldid=15236" इत्यस्माद् प्रतिप्राप्तम्