नटानां स्त्रियः रङ्गमञ्चं गताः कस्य त्वम् इति पृष्टे सति तवएव अहम् ? एव तव अहम् इति समादधति । अजादेर्द्वितीयस्य इति पाणिनीयसूत्रस्य भाष्ये पतञ्जलिमहर्षिणा (६-१-२३)प्रयुक्तः अयं न्यायः ।

यथा – यथा नटानां स्त्रियो रङ्गगता यो यः पृच्छति कस्य यूयं कस्य यूयमिति तं तं तव इत्याहुः । एवं व्यञ्जनान्यपि यस्य यस्याचः कार्यमुच्यते तं तं भजन्ते ॥ (सा. ३७०)

"https://sa.wikiquote.org/w/index.php?title=नटाङ्गनान्यायः&oldid=10371" इत्यस्माद् प्रतिप्राप्तम्