नद्याः जलं वेगेन वहत् अन्ते समुद्रे लीयते । तथैव सर्वे पदार्थाः चिदानन्दे परमात्मनि मिलन्ति इति अस्य भावः । यथा गीतायाः

यथा नदीनां बहवौऽम्बुवेगाः समुद्रमेवाभिमुखा द्रवन्ति ।

तथा तवामी नरलोकवीरा विशन्ति वक्त्राण्य भिविज्वलन्ति ॥ (११-२८)

नदीनां जलप्रवाहाः यथा समुद्रम् अभिविशन्ति तथा मनुष्यलोकस्य सर्वेऽपि

एते वीराः तव प्रज्वलितमुखेषु ज्वलन्ति ।

(लोकमान्यतिलक – गीतारहस्ये पृ.७१९) सा. ३७०

"https://sa.wikiquote.org/w/index.php?title=नद्यम्बुवेगन्यायः&oldid=10374" इत्यस्माद् प्रतिप्राप्तम्