नरसिंहावतारे नरस्य सिंहस्य च संयुक्तं रुपं दृश्यते । तथैव एकस्मिन् मनुष्ये मनुष्यत्वं, सिंहस्य इव क्रूरत्वादिकं च भवति चेत् नरसिंहन्यायस्य प्रयोगो भवति ।

अलङ्कारशास्त्रे संकरालङ्कारस्य विवेचनसमये अस्य न्यायस्य क्षीरन्यायस्य च प्रयोगः क्रियते । यथा

व्यक्ता च संसृष्टिर्नरसिंहवदिष्यते ।

चित्रवर्णवदन्यस्मिन् नानालङ्कारसङ्करे ॥ सरस्वतीकण्ठाभरणे पृष्ठं २७२

"https://sa.wikiquote.org/w/index.php?title=नरसिंहन्यायः&oldid=10375" इत्यस्माद् प्रतिप्राप्तम्