नवनीतोपमा वाणी...
सुभाषितम्
नवनीतोपमा वाणी करुणा कोमलं मनः ।
धर्मबीजप्रसूतानाम् एतत् प्रत्यक्षलक्षणम् ॥
पद्मपुराणम् १-४९-१३१
navanītopamā vāṇī karuṇā komalaṃ manaḥ ।
dharmabījaprasūtānām etat pratyakṣalakṣaṇam ॥
पदच्छेदः
नवनीतोपमा वाणी करुणा कोमलं मनः धर्मबीजप्रसूतानाम् एतत् प्रत्यक्षलक्षणम् ॥
तात्पर्यम्
नवनीतवत् मृदु वचनं, दयया युक्तं मृदु मनः - इत्येते धर्मात्मनां प्रत्यक्षलक्षणे।
आङ्ग्लार्थः
Soft words like fresh butter, soft minds full of compassion - these are the direct characteristics of the righteous.