नसर्वत्रतुल्यत्वन्यायः

अन्येषां प्रवर्तिका क्रिया सर्वत्र एकविधा न भवतीति अस्य भावः । सैनिकः साक्षात् खड्गप्रयोगेण युद्धे प्रवर्तते । सेनापतिस्तु केवलं आदेशैः युद्धे प्रवर्तते । तथैव राजा केवलसन्निधिना सर्वान् स्व कार्ये प्रवर्तयति । यथा –

न च सर्वत्र तुल्यत्वं स्यात् प्रयोजनकर्मणाम् ।

चलनेन ह्यसिं योद्धा प्रयुङ्क्ते छेदनं प्रति ॥

सेनापतिस्तु वाचैव भृत्यानां विनियोजकः ।

राजा सन्निधिमात्रेण विनियुङ्क्ते कदाचन ॥ श्लोकवार्तिकम् ८६,८७