नागुणी गुणिनं वेत्ति...

<poem>



सुभाषितम्

नागुणी गुणिनं वेत्ति गुणी गुणिषु मत्सरी ।
गुणी च गुणरागी च विरलः सरलो जनः ॥

सुभाषितरत्नभाण्डागारम्

nāguṇī guṇinaṃ vetti guṇī guṇiṣu matsarī ।
guṇī ca guṇarāgī ca viralaḥ saralo janaḥ ॥

पदच्छेदः

न अगुणी गुणिनं वेत्ति गुणी गुणिषु मत्सरी गुणी च गुणरागी च विरलः सरलः जनः ॥


तात्पर्यम्

गुणहीनं न प्रत्यभिज्ञातुमर्हति गुणवान् । सद्वान् अन्येषु सद्गुणेषु ईर्ष्याम् अनुभवति । ये स्वयं सद्गुणिनः सन्तः अपि अन्यगुणप्रियाः सन्ति तादृशाः सरलाः जनाः अत्यल्पाः सन्ति ।


आङ्ग्लार्थः

A non-virtuous person fails to acknowledge a virtuous person. A virtuous is jealous of other virtuous persons. One who is both virtuous and is delighted by the merits of other virtuous people is rare.

"https://sa.wikiquote.org/w/index.php?title=नागुणी_गुणिनं_वेत्ति...&oldid=18182" इत्यस्माद् प्रतिप्राप्तम्