नानानेतृ...
चित्रकाव्यम्
नानानेतृनतो नेता नॄनपान्नृपतिः पिता ।
नुन्ना येन तनुः पूता तापे ना नौति तत्तपः ॥
वैशिष्ट्यम्
अस्मिन् श्लोके न प त इत्येतत् वर्णत्रयमात्रम् उपयुक्तम् ।
अर्थः
कश्चित् जननायकः नानानेतृभिः नतः अस्ति । राजा पिता इव जनान् अपालयत् । तेन पवित्रं शरीरं तापे (कष्टे) स्थापितम् । तस्य तपः ना (अयं जनः ) नौति ।