नान्योऽतोऽस्ति द्रष्टा...

आत्मैव निजो द्र्ष्टा !

नान्योऽतोऽस्ति द्रष्टा, नान्योऽतोऽस्ति श्रोता, नान्योऽतोऽस्ति
मन्ता नान्योऽतोऽस्ति विज्ञाता । एष ते आत्मा अन्तर्यामी
अमृतः, अतोऽन्यदार्तम् । - बृहदारण्यकोपनिषत् ३-७-२३

अस्मादात्मनः अन्यः द्रष्टा नास्ति, अस्मात् अन्यः श्रोता नास्ति,
अतोऽन्यः मन्ता नास्ति, अतोऽन्यः विज्ञाता नास्ति । एष एव ते
अन्तर्यामी आत्मा, अमृतः । अतोऽन्यद् आर्तम् ॥

आत्मनो भिन्नम् अन्यं जीवात्मानं निषेधति अयं मन्त्रः । अत्र
आत्मा नाम प्रत्यगात्मा चिन्मात्रस्वरूपः । आत्मा तु एक एव ।
आत्मा नाम परमार्थस्वरूप एव । आप्नोति इति आत्मा ॥

अयमेव आत्मा नेत्रोपाधिना द्रष्टा, श्रोत्रोपाधिना श्रोता, मन उपाधिना
मन्ता, बुद्ध्युपाधिना विज्ञाता भवति । अयमेव अन्तर्यामी, अयमेव
सर्वेषां प्राणिनाम् आत्मा । द्रष्टृ, श्रोतृ, मन्तृ, विज्ञातृ, वक्तृ – आदिजीवरूपेणा
दृश्यमानः आत्मा अयमेव । इममेकं प्रत्यगात्मानं विहाय अन्यत्
सर्वमपि आर्तम् । आर्तं नाम अनित्यम्, असत्यम्, दुःखमेव इत्यर्थः ॥