नाभिरहं रयीणां नाभिः समानानां भूयासम् ॥

नाभिरहं रयीणां नाभिः समानानां भूयासम् ॥ (अथर्ववेदः १६-४-१) सम्पाद्यताम्

सम्पत्तेः केन्द्रं समानानां केन्द्रम् अहं भवेयम् ।

भगवतः सम्पत्तिः सर्वत्र प्रसृता अस्ति । मतिहीनैः इव सम्पत्तेः विनाशः कर्तुं शक्यः । बुद्धिम् उपयुज्य तस्याः रक्षणमपि शक्यम् । चातुर्येण लोकोपकारभावेन तस्य वर्धनमपि शक्यम् । रक्षकस्य वर्धकस्य पात्रं यदा निरूह्यते तदा वयं सम्पत्तेः केन्द्ररूपाः भवामः !!
स्नेहः समानैः सह भवति । असमानैः सह स्नेहः भवति चेदपि अल्पकाले एव विरसः उत्पद्येत । समानैः सह स्नेहसम्बन्धः यदा भवेत् तदा वयं स्नेहस्य केन्द्रभूताः भवेम ! अस्मासु सर्वः अपि एवं सम्पत्तेः स्नेहस्य केन्द्ररूपाः भवेम चेत् अस्माकमपि हिताय भवति, जगते अपि हिताय भवति ।