सुभाषितम्

नाभिषेको न संस्कारः सिंहस्य क्रियते वने ।
विक्रमार्जितसत्त्वस्य स्वयमेव मृगेन्द्रता ॥

हितोपदेशः सुहृद्भेदः-१९

nābhiṣeko na saṃskāraḥ siṃhasya kriyate vane ।
vikramārjitasattvasya svayameva mṛgendratā ॥

पदच्छेदः

न अभिषेकः न संस्कारः सिंहस्य क्रियते वने विक्रमार्जितसत्त्वस्य स्वयम् एव मृगेन्द्रता ॥


तात्पर्यम्

सिंहस्य संस्कारपूर्वकम् अभिषेकः केनापि न कृतः । स्वस्य पराक्रमेण एव सः पशूनां पतिः जातः अस्ति । इदं स्वतःसिद्धरूपेणैव सिंहेन प्राप्तमस्ति ।


आङ्ग्लार्थः

Neither any kind of anointment is done, nor any separate or special rites are given to him, then who made the lion the king of the jungle?? The one who creates his own place or his kingdom with his might is himself called Swayambhu 'Mrigendra' i.e. the king of lions or the king of kings.

"https://sa.wikiquote.org/w/index.php?title=नाभिषेको_न_संस्कारः...&oldid=18184" इत्यस्माद् प्रतिप्राप्तम्