आत्मा न शुष्कबुद्धिगम्यः

नायमात्मा प्रवचनेन लभ्यो न मेधया न बहुना श्रुतेन । - मुण्डकोपनिषत् ३-२-३

अयम् आत्मा प्रवचनेन न लभ्यः, मेधया न लभ्यः, बहुना श्रुतेनापि न लभ्यः ।

साधकेषु केचित् अधीतशास्त्राः, अपरे प्रवचनपटवः, अन्ये तु केचित् महामेधाविनो
भवन्ति । वयं ज्ञानिनः इति एते मन्यन्ते । एतादृशेभ्यः शुष्कपण्डितेभ्यः अयं मन्त्रः
जागरणसन्देशम् उपदिशति “नैतेन कतमेनापि आत्मा ज्ञातुं शक्यते” इति ॥

प्रवचनं नाम बाहुल्येन वेदशास्त्राध्ययनम् । चतुर्णामपि वेदानाम्, अनेकेषां शास्त्राणाम्,
अष्टादशपुराणानाम् अध्ययनसामर्थ्यं हि प्रवचनं नाम । नैतत् सुलभसाध्यम् !
अत्यन्तकष्टकरमेव साधनमेतत् । भवतु नाम, नैतावता केवलेन आत्मज्ञानं लभ्यते ।
अथ मेधासामर्थ्यम् ! एकदा पठितानां ग्रन्थानाम् अर्थधारणं हि मेधा । इदमपि
अद्भुतमेव । अपि तु नानेनापि आत्मज्ञानोदयः । बहुना श्रुतेनापि, शास्त्रप्रवचनैः
केवलैः श्रूयमाणैरपि आत्मज्ञानं नोदेति । शमदमादिसाधनसम्पन्नैरेव मुमुक्षुभिः
आत्मा विज्ञातुं शक्यते ॥

"https://sa.wikiquote.org/w/index.php?title=नायमात्मा_प्रवचनेन...&oldid=16596" इत्यस्माद् प्रतिप्राप्तम्