नायमात्मा प्रवचनेन लभ्यो...

एतावन्मात्रेण न ज्ञानोदयः

नायमात्मा प्रवचनेन लभ्यो न मेधया न बहुना श्रुतेन । - काठकोपनिषत् १-२-२३

अयमात्मा प्रवचनेन न लभ्यः, मेधया न लभ्यः, बहुना श्रुतेनापि न लभ्यः ।

बुद्धिसामर्थ्येन मेधाशक्तिबलेन च अयं प्रचण्डमानवः, भूमिपर्वतसमुद्रसूर्यचन्द्रनक्षत्रादीनां
रहस्यानि अन्विष्यन् यशस्वी भवति । वेदशास्त्रपुराणानाम् अध्ययनेन योगानुष्ठानस्य
बलेन च जन्मान्तरलोकान्तरविचारान् अयं बुद्धिमान् मानवः विजानाति । अष्टसिद्धीश्च
अयं तपसा प्राप्नुयात् ॥

अस्तु, सन्तोषः । चतुर्वेदाध्ययनमात्रेण नात्मा ज्ञातो भवति । केषाञ्चित् विदुषां
मेधासामर्थ्यं समृद्धं भवति । एकधा पठितं श्रुतं वा विषयम् आमरणं स्मरन्ति केचन
पण्डिताः । एतेषाम् “एकसन्धिग्राहिणः” इति नामधेयम् । एतेनापि बलेन आत्मानं
ज्ञातुं न शक्यते । अपरे पुनः तर्कमीमांसा-व्याकरण-ज्यौतिष्यागमादिशास्त्रप्रवीणाः
सन्तः प्रवचनपटवो भवन्ति । तावता किं वा फलम् ? नैतेनापि बलेन आत्मानं ते
विजानीयुः ॥