नाविरतो दुश्चरितात्...
नाविरतो दुश्चरितात् नाशान्तो नासमाहितः । नाशान्तमानसो वापि प्रज्ञानेनैनमाप्नुयात् ॥ - काठकोपनिषत् १-२-२४
दुश्चरितात् अविरतः, अशान्तः, असमाहितः, अशान्तमानसश्च साधकः एनम् आत्मानं प्रज्ञानेन ज्ञातुं न शक्नोति ।
आत्मज्ञानं तु अत्यन्तं सुलभमेव, तथापि तस्य अनुत्पत्तौ अनेके दोषाः भवन्ति । एते सर्वेऽपि दोषाः मानसा एव । एतैः
दोषैः युक्तस्य मनसः ‘अशुद्धं मनः’ इति नाम । एतेभ्यः दोषेभ्यः मुक्तमेव 'शुद्धं मनः' । अध्यात्मसाधकैः एतेषां मानसदोषाणां
परिहाराय प्रयत्नः कर्तव्यः ॥
के एते दोषाः ? इति चेत्, दुराचारः प्रथमो दोषः, इन्द्रियाणां स्वेच्छाविहाराय अवकाशदानमेव दुराचारो नाम । शास्त्रविरुद्धाः
अनाचाररूपाः सम्प्रदायबाह्याः व्यवहाराः साधकेन सर्वथा परिहर्तव्याः । अशान्तमनस्त्वं द्वितीयो दोषः । मनसि विषयवासनापूर्णस्य
साधकस्य आत्मज्ञानं लभ्यते वा ? नैव लभ्यते । सदाचारसम्पन्नस्य शान्तमनसः वेदान्तवाक्यार्थविचारपरस्य साधकस्य
आत्मज्ञानम् अवश्यम् उदेति ॥