नास्ति धर्मसमो बन्धुः...

सुभाषितम्

नास्ति धर्मसमो बन्धुः नास्ति धर्मसमा क्रिया ।
नास्ति धर्मसमो देवः सत्यं सत्यं वदाम्यहम् ॥




तात्पर्यम्

अहं सत्यमेव वदामि - धर्मसमानः बन्धुः कोपि नास्ति ।
धर्मसमं कार्यं न किमपि विद्यते । धर्मसमा देवता कापि नास्ति ।