नास्ति वेदात् परं...
सुभाषितम्
'नास्ति वेदात् परं शास्त्रं नास्ति मातुः परो गुरुः ।
नास्ति दानात् परं मित्रम् इहलोके परत्र च ॥
तात्पर्यम्
ईहलोके च परलोके वेदात् परं शास्त्रं नास्ति, मातुः परो गुरुः नास्ति, दानात् परं मित्रं नास्ति ।