सुभाषितम्

नाहं जानामि केयूरे नाहं जानामि कुण्डले ।
नूपुरेत्वभिजानामि नित्यं पादाभिवन्दनात् ॥




तात्पर्यम्

केयूरे (बाह्वोः आभरणम्) अहं न अभिजानामि । कर्णकुण्डले अपि न अभिजानामि । किन्तु नित्यं पादाभिवन्दनसमये दृष्टम् इत्यतः नूपुरे तु सम्यक् अभिजानामि । (सीतायाः आभरणं दृष्टवतः लक्ष्मणस्य वचनमिदम् ।)

"https://sa.wikiquote.org/w/index.php?title=नाहं_जानामि_केयूरे...&oldid=14937" इत्यस्माद् प्रतिप्राप्तम्