नित्यं हिताहार विहारसेवी...


सुभाषितम्

नित्यं हिताहारविहारसेवी
समीक्ष्यकारी विषयेष्वसक्तः ।
दाता समः सत्यपरः क्षमावान्
अप्तोपसेवी च भवत्यरोगः ॥

अष्टाङ्गसंग्रहः सूत्रस्थानम् अध्याय ५-६३

nityaṃ hitāhāra vihārasevī
samīkṣyakārī viṣayeṣvasaktaḥ ।
dātā samaḥ satyaparaḥ kṣamāvān
aptopasevī ca bhavatyarogaḥ ॥

पदच्छेदः

नित्यं हिताहारविहारसेवी समीक्ष्यकारी विषयेष्वसक्तः दाता समः सत्यपरः क्षमावान् अप्तोपसेवी च भवति अरोगः ॥


तात्पर्यम्

यः जनः शरीरस्य हितदायकम् आहारं सेवते, विचारशीलः, विरक्तः, दानशीलः, समानबुद्धिः, सत्यवादी, क्षमाशीलः, वृद्धानां सेवातत्परः, सः रोगैः पीडितः न भवति ।


आङ्ग्लार्थः

A person with a healthy diet, thoughtful, unattached to objects, generous, equal-minded, truthful, forgiving, and service-minded towards elders does not suffer from disease