निम्नगाप्रवाहन्यायः
निम्नगा नाम नदी । एकदा एकः कीटः नदीप्रवाहेण नीयमानः आसीत् । एकस्मात् आवर्तात् सः कथाञ्चित् रक्षितः अपि दुर्दैवेन अपस्मिन् आवर्ते पतित्वा प्राणान् त्यक्तवान् । एवं जीवेनाऽपि एकं जन्म कथञ्चित् नीयते चेदपि अपरं जन्म योग्यरीत्या नेयं भवति । अन्यथा जन्म व्यर्थं स्यात् ।
यथा –कुर्वते कर्म भोगाय कर्म कर्तुञ्च भुञ्जते ।
नद्यां कीटा इवावर्तात् आवर्तान्तरमाशु ते ॥
व्रजन्तो जन्मनो जन्म लभते नैव निर्वृतिम् ।
सत्कर्मपरिपाकान्ते करुणाविधिनोद्धृताः ।
प्राप्य तीरतरुच्छायां विश्राम्यन्ति यथासुखम् ॥ (लौकिकन्यायसाहस्रीतः)