निवेदिता

भारतीय सामाजिक कार्यकर्त्री, हैन्दवदेशवादि, स्वामि विवेकानन्दस्य शिष्या च

भगिनी निवेदिता लेखिका, शिक्षिका, विवेकानन्दस्य शिष्या च ।

सत्यस्य एकाधिकारः कस्यचित् सम्प्रदायस्य वशे न विद्यते ।

अमृतवचनानि सम्पाद्यताम्

  • भारते सर्वेषां जनानां ‘भारतीयत्वं’ स्यात्, नाडीषु राष्ट्रियतारक्तं प्रवहेत्, राष्ट्रियं चिन्तनम् अनुशासितं स्यात् । अस्माकं सञ्चालनस्य दिशां वयम् एव निश्चिनुयाम । दिशानिर्देष्टा अन्यः कोऽपि न भवेत् सर्वथा । वयम् अन्यस्य कार्यक्रमस्य स्वीकरणं न कुर्याम । अस्मदीयं कार्यक्रमं स्वप्रज्ञाबलात् वयम् एव निर्णयेम ।
  • सत्यस्य एकाधिकारः कस्यचित् सम्प्रदायस्य वशे न विद्यते । न किञ्चन मतं भ्रान्तिरहितम् इत्यपि वयं निर्णेतुं न शक्नुमः । सत्यस्य अन्वेषणे न किमपि ज्ञानम् अन्तिमं, कोऽपि महापुरुषः अन्तिमः साक्षात्कारवान् न, ईश्वरस्य एकमात्र-प्रतिनिधिः अपि न । ज्ञानस्य सागरः अस्ति अगाधः । अतः यः जिज्ञासुः श्रद्धया प्रयतेत तेन सत्यस्य विविधमुखानि दृश्येरन् । (पथ और पाथेय, लोकहितप्रकाशन पृ ४८)
"https://sa.wikiquote.org/w/index.php?title=निवेदिता&oldid=17537" इत्यस्माद् प्रतिप्राप्तम्