नैवेह किञ्चनाग्र आसीत्...

नैवेह किञ्चनाग्र आसीत्, मृत्युनैवेदमावृतम् आसीत् अशनायया, अशनाया
हि मृत्युः ॥ - बृहदारण्यकोपनिषत् १-२-१

सृष्टेः पूर्वम् इह न किञ्चित् आसीत् । इदं सर्वं तदा अशनायारूपेण मृत्युना आवृतमासीत् ।
अशनाया हि मृत्युः ॥

इदानीं नामरूपाभ्यां व्याकृततया दृश्यमानमिदं जगत् व्याकृतप्रपञ्चः इत्यभिधीयते । इदं व्याकृतं
जगत् इदानीम् इव पूर्वमपि न व्याकृतमेव आसीत् । तर्हि शून्यम् आसीद्वा ? इति चेत्, न । किं
तु सृष्टेः पूर्वम् इदं जगत् मृत्युना आवृतमासीत् ॥

मृत्युर्नाम अशनाया ! अत्तुम् इच्छा अशनाया, खादितुम् इच्छा । इयम् अशनाया एव मृत्युः । जिघत्सुम्
अशनाया हन्तीव । तस्मात् अशनायां हि मृत्युम् वदति अयं मन्त्रः । हिरण्यगर्भमेव अथवा अव्याकृतात्मानमेव
अत्र मृत्युशब्देन अभिदधाति मन्त्रः ॥

परमात्मापि अत्र अव्याकृतशब्देन उच्येत् । स एव हि हिरण्यगर्भात्मना मृत्युरूपेणा च अवभासते । सर्वथा
अयं प्रपञ्चः पुरा परमात्मैव आसीत् । तस्मादेव परमात्मनः अयं प्रपञ्चो जातः ॥