न कश्चित्कस्यचिन्मित्रं...


सुभाषितम्

न कश्चित् कस्यचिन्मित्रं न कश्चित् कस्यचिद् रिपु:।
कारणेनैव जायन्ते मित्राणि रिपवस्तथा॥

महाभारतम् १२-१४०-५१

na kaścit kasyacinmitraṃ na kaścit kasyacid ripu:।
kāraṇenaiva jāyante mitrāṇi ripavastathā॥

पदच्छेदः

न कश्चित् कस्यचित् मित्रं न कश्चित् कस्यचिद् रिपु: कारणेन एव जायन्ते मित्राणि रिपवः तथा॥


तात्पर्यम्

कोपि जनः कस्य अपि स्नेहितः न शत्रुः अपि नास्ति । व्यवहारकारणात् एव कश्चन अस्माकं मित्रं भवति अन्यः च शत्रुः भवेत् ॥


आङ्ग्लार्थः

Neither anybody is a friend of others nor enemy. Need (or situation) only makes them friend or enemy.