न कश्चिदपि जानाति...
सुभाषितम्
न कश्चिदपि जानाति किं कस्य श्वो भविष्यति ।
अतः श्वः करणीयानि कुर्यादद्यैव बुध्दिमान् ॥
सुभाषितरत्नभाण्डागारम् १५४/४०
na kaścidapi jānāti kiṃ kasya śvo bhaviṣyati।
ataḥ śvaḥ karaṇīyāni kuryādadyaiva budhdimān ॥
पदच्छेदः
न, कश्चित्, अपि, जानाति, किम्, कस्य, श्वः, भविष्यति, अतः, श्वः, करणीयानि, कुर्यात्, अद्य, एव, बुध्दिमान् ।
तात्पर्यम्
श्वः किं भविष्यति इति यः कोपि ज्ञातुं न शक्यते अतः बुद्धिवान् पुरुषः श्वः कर्तव्यानि कार्याणि अद्य एव करोति ।
आङ्ग्लार्थः
No one knows what is going to happen tomorrow. So doing all of tomorrow’s task today is a signature of wise.