न चक्षुषा गृह्यते नापि वाचा नान्यैर्देवैः तपसा कर्मणा वा । - मुण्डकोपनिषत् ३-१-८

चक्षुषा वा वागिन्द्रियेण वा इतरैः इन्द्रियैर्वा तपसा वा कर्मणा वा प्रत्यगात्मानं द्रष्टुं न शक्यते ।

अनेन चर्मचक्षुषा परब्रह्मतत्त्वं द्रष्टुं न शक्यते । चक्षुषः चक्षुर्भूतम् आत्मानं चक्षुषा द्रष्टुं शक्यते वा ?
नैव । रूपयुक्तान् पदार्थानेव चक्षुरिन्द्रियं पश्येत् । अरूपोऽयमात्मा । अतः नेत्राणि आत्मानं न पश्येयुः ।
तर्हि वागिन्द्रियेण आत्मानं ज्ञातुं शक्यते किम् ? न शक्यते । यतः आत्मा निर्गुणः निर्धर्मकः ॥

भवतु, इतरैः इन्द्रियैः आत्मा ज्ञायते वा ? तदपि न शक्यते । सर्वथा अविषयभूतम् आत्मानं न केनापि
इन्द्रियेण ज्ञातुं शक्यते । भवतु, उपवास व्रतानुष्ठान् जपमौनादिना तपसा ज्ञातुं शक्यते वा ? नैव शक्यते ।
अस्तु, अग्निहोत्रादिना श्रौतेन कर्मणा आत्मानं विज्ञातुं शक्यते वा ? तेनापि न शक्यते । तर्हि, कथमात्मा
ज्ञातुं शक्यते ? इति चेत् । उच्यते । स्वतः सिद्धम् अस्माकं प्रत्यगात्मानं वेदान्तार्थविचारजनितया
ब्रह्मविद्यया एव केवलया जानीयात्, उपायान्तरेणा नैव शक्यते ॥

"https://sa.wikiquote.org/w/index.php?title=न_चक्षुषा_गृह्यते...&oldid=16593" इत्यस्माद् प्रतिप्राप्तम्