सूर्यादीनामपि अशक्यमेव

न तत्र सूर्यो भाति न चन्द्रतारकम्
नेमा विद्युतो भान्ति कुतोऽयमग्निः ।
तमेव भान्तमनुभाति सर्वं
तस्य भासा सर्वमिदं विभाति ॥ - काठकोपनिषत् २-२-१५

तद् ब्रह्म सूर्यो न भाति, चन्द्रतारकं न भाति, इमाः विद्युतो न
भान्ति, अयम् अग्निस्तु तं कथं भाति ? स्वयंभान्तं तमेव आत्मानम्
अनुसृत्य सर्वं भाति । तस्यैव भासा इदं सर्वं विभाति ।

प्रभाते सूर्यः, रात्रौ तु चन्द्रनक्षत्रादयः इमं प्रपञ्छं प्रकाशायन्ति इति
खलु वयं सर्वेऽपि जानीमः । नेदं मतं साधु भवति । सूर्यादीनामपि
आत्मत्वेन चैतन्यात्मकः प्रकाशकः अन्यः अस्ति । तम् आत्मानं सूर्यो
वा चन्द्रनक्षत्राण्यादीनि वा नैव प्रकाशयेयुः ॥

आत्मा तु स्वयं चिन्मात्रः, स्वयंप्रकाशः सन् सर्वानपि अवभासयति ।
अग्निना तप्तं हि अयः पिण्डं अन्यान् दहति प्रकाशयति च । न तु
स्वतः अयः पिण्डस्य दहनप्रकाशनसामर्थ्यम् अस्ति । तथैव चिन्मात्रस्वरूप
एव आत्मा सर्वमिदम् अवभासयति ॥

"https://sa.wikiquote.org/w/index.php?title=न_तत्र_सूर्यो_भाति...&oldid=16299" इत्यस्माद् प्रतिप्राप्तम्