न तस्य कश्चित् पतिरस्ति...

न तस्य कश्चित् पतिरस्ति लोके, न चेशिता, नैव च तस्य लिङ्गम् । - श्वेताश्वतरोपनिषत् ६-९

तस्य परमात्मनः अन्यः पतिः नास्ति, स एव सर्वस्यापि पतिः, स एव ईशः, स एव सर्वस्यापि प्रभुः ।
तस्मात् अन्यः ईशिता नास्ति, यस्य वशे परमात्मा वर्तेत । परमार्थतः अस्य विश्वस्य स एव एकः प्रभुः ।
नैवम्, किन्तु स एव एकः परमार्थः ॥

इन्द्रचन्द्रादयो देवाधिदेवाः अपि अस्य आत्मनः अधीनभूता एव जीवन्ति । आत्मा तु न कस्यापि देवस्य
अधीनभूतः । न चास्य आत्मनः बाह्यानि लक्षणानि विद्यन्ते । आत्मनः पाणिपादाः, इन्द्रियमनांसि, पत्नीपुत्राः
शस्त्रास्त्राणि, वाहनानि च न विद्यन्ते । अयमेव आत्मा अस्माकं निजस्वरूपम् । अयमेव हि परमात्मा नाम ।
वेदान्तेषु प्रतिपादितश्च अयमेव । ब्रह्मविष्णुमहेशाः त्रिमूर्तयः सोपाधिकाः देवाः । एतेषामपि प्रभुः परमात्मा एव
वेदान्तेषु प्रतिपादितं परं ब्रह्म । एतस्यैव हि ज्ञानेन मुक्तिः लभ्यते ॥