सुभाषितम्

न त्वहं कामये राज्यं न स्वर्गं नापुनर्भवम् ।
कामये दुःखताप्तानां प्राणिनाम् आर्तिनाशनम् ॥

na tvahaṃ kāmaye rājyaṃ na svargaṃ nāpunarbhavam ।
kāmaye duḥkhatāptānāṃ prāṇinām ārtināśanam ॥

पदच्छेदः

न तु अहं कामये राज्यं न स्वर्गं न अपुनर्भवम् कामये दुःखताप्तानां प्राणिनाम् आर्तिनाशनम् ॥


तात्पर्यम्

हे भगवन्! न राज्यं कामये, स्वर्गसुखं न कामये, मोक्षमपि न कामये। केवलं मम इच्छा अस्ति यत् दुःखपीडितानां जीवानां दुःखं समाप्तं भवेत्।


आङ्ग्लार्थः

O Lord! I do not desire a kingdom, I do not want the bliss of heaven, and I do not even desire salvation. My only desire is that the suffering of beings tormented by sorrow should end.

"https://sa.wikiquote.org/w/index.php?title=न_त्वहं_कामये_राज्यं...&oldid=18168" इत्यस्माद् प्रतिप्राप्तम्