न दैवमिति सञ्चिन्त्य...
सुभाषितम्
न दैवमिति सञ्चिन्त्य त्यजेदुद्योगमात्मनः ।
अनुद्यमेन कस्तैलं तिलेभ्यः प्राप्तुमर्हति ॥
na daivamiti sañcintya tyajedudyogamātmanaḥ ।
anudyamena kastailaṃ tilebhyaḥ prāptumarhati ॥
पदच्छेदः
न दैवम् इति सञ्चिन्त्य त्यजेत् उद्योगम् आत्मनः अनुद्यमेन कः तैलं तिलेभ्यः प्राप्तुम् अर्हति ॥
तात्पर्यम्
सर्वं दैवाधीनमिति विचिन्त्य प्रयत्नम् अकुर्वद्भिः न उपवेष्टव्यम् । आत्मनः परिश्रमं विना कथं तिलात् तैलं निष्कासयितुं शक्येत ?
आङ्ग्लार्थः
One should never give up one's zeal and endeavour for doing a job, simply by resigning to his fate. Without exerting one's self how can a person expect to extract oil from sesame seeds ?