प्राणापानावपि अस्वतन्त्रावेव

न प्राणेन नापानेन मर्त्यो जीवति कश्चन ।
इतरेण तु जीवन्ति यस्मिन्नेतावुपाश्रितौ ॥ - काठकोपनिषत् २-२-५

प्राणेन वा अपानेन वा न कश्चन प्राणी जीवति । किं तु यस्मिन् एतौ प्राणापानौ
प्रतिष्ठितौ स्तः, तेनैवात्मना सर्वे जीवन्ति ॥

“प्राणापानाभ्यां वयं जीवामः इति, प्राणे निर्गते सति वयं म्रियामहे” इति च सर्वे
जानन्ति । तस्मादेव कारणात् प्राणमेव आत्मानं मन्यन्ते सर्वे ॥

नैषा साध्वी मतिः । यतो हि प्राणापानव्यानोदानसमाना वा इन्द्रियमनोबुद्धयो वा
न स्वतन्त्राः । प्राणादयः सर्वेऽपि शरीरे संहताः सन्तः आत्मने, आत्मार्थं, आत्मनः
सान्निध्ये व्याप्रियन्ते । अयमात्मा तु असंहतः सच्चिदानन्दस्वरूपः पारमार्थिकस्वरूपश्च ।
तेन आत्मना निमित्तभूतेनैव एतेषां प्राणादीनाम् अस्तिता । आत्मनैव प्राणादयो जीवन्ति ।
अयमेव प्रत्यगात्मा । एतमेव आत्मत्वेन यो विजानाति स एव धीरः, एष एव च ब्रह्मवित् ।
अयम् आत्मा अजः, अजरः, अमरः, अमृतः अभयः, अद्वयश्च ॥

"https://sa.wikiquote.org/w/index.php?title=न_प्राणेन_नापानेन...&oldid=16301" इत्यस्माद् प्रतिप्राप्तम्