न साम्ना शक्यते कीर्तिः...

सुभाषितम्

न साम्ना शक्यते कीर्तिर्न साम्ना शक्यते यशः ।
प्राप्तुं लक्ष्मण लोकेऽस्मिन् जयो वा रणमूर्धनि ॥
वाल्मीकि-रामायणम् ६-२१-१६




तात्पर्यम्

हे लक्ष्मण ! शत्रुभिः सह शान्त्युपायेन कीर्तिः वा यशः वा युद्धभूमौ जयः वा नैव प्राप्तुं शक्यते।