न हि प्रज्ञापेतं शरीरं...

न हि प्रज्ञापेतं शरीरं सुखं दुःखं किञ्चन प्रज्ञापयेत् । - कौषीतकिब्राह्मणोपनिषत् ३-७

प्रज्ञारहितं चेत् शरीरं सुखं दुःखं वा किञ्चन न विजानीयात् ॥

अस्मिन् शरीरे अनेके व्यापाराः सततं भवन्ति । अल्पम् अन्नं, किञ्चित् जलं च दत्तं चेत्, एतद् शरीरं
स्वयमेव सकलानि कर्माणि करोति । अस्मिन् शरीरे नेत्रे पश्यतः, श्रोत्रे शृणुतः, मनसि सुखदुःखानुभवो
भवति । इदं कथं साध्यम् ? शरीरादीनि सर्वाण्यपि जडानि खलु ? इति चेत्, अयं मन्त्रः प्रतिवचनं ददाति ॥

सर्वेऽप्येते व्यापाराः प्रज्ञानिमित्ताः । प्रज्ञा नाम चिन्मात्रस्वरूपः आत्मैव । अचेतनस्यापि मनसः
सुखदुःखानुभवशक्तिः प्रज्ञानिमित्तैव । प्रज्ञासम्बन्धः विच्छिन्नश्चेत् इदं शरीरं शव एव भवति ।
प्रज्ञा एव देहे शक्तिः । प्रज्ञा नाम शुद्धा निरुपाधिका चैतन्यशक्तिः । आत्मन एव प्रज्ञा इति
नामान्तरम् । सूर्यस्य प्रकाशवत् आत्मनः स्वरूपभूतया प्रज्ञया सर्वे व्यापाराः, सर्वाणि कार्याणि
च भवन्ति । प्रज्ञा एव ब्रह्म । परमेव ब्रह्म प्रज्ञारूपेण अवभासते ॥