पङ्कं प्रविश्य तदनन्तरं पादप्रक्षालनस्य अपेक्षया पङ्के अप्रवेशः योग्यः खलु । एवं कस्यचन अनिष्टस्य कालान्तरनिवारणस्य अपेक्षया अनिष्टस्य अनारम्भ एव श्रेयान् खलु । एवम अनिष्टस्य अनारम्भः अनेन बोध्यते ।

यथा : १) प्रक्षालनाद्धि पङ्कस्य दूरादस्पर्शनं वरम् । म. भा. शान्तिपर्वणि २-४९

२ ब्रह्मसूत्रशाङ्करभाष्ये ३-३-३३

"https://sa.wikiquote.org/w/index.php?title=पङ्कप्रक्षालनन्यायः&oldid=10303" इत्यस्माद् प्रतिप्राप्तम्