पङ्गवन्धन्यायः
एकः अन्धः अपरः पङ्गुः । एतौ द्वौ एकत्र समागतौ । द्वयोः अपि एकमेव गम्यम् आसीत् । तदा एका युक्तिः ताभ्यां चिन्तिता । अन्धः स्वस्कन्धयोः उपरि पङ्गुम् उपवेशितवान् । इदानीं अन्धः चलितुं शक्नोति पङ्गुः द्रष्टुं शक्नोति इति पङ्गुमार्गदर्शने अन्धः चलितुम् आरब्धवान् । एवं द्वाभ्यां गम्यं प्राप्तम् ।
एवमेव स्वस्वकर्मणि समर्थौ यदि एकत्र समागत्य एकस्य कार्यस्य सिद्ध्यर्थं प्रयत्नं कुर्यातां तर्हि लक्ष्यम् अवश्यं प्राप्नुयाताम् इति अनेन न्यायेन बोध्यते ।
यथा –पुरुषस्य दर्शनार्थं कैवल्यार्थं तथा प्रधानस्य ।
पङ्वन्धवदुभयोरपि संयोगस्तत्कृतः सर्गः ॥ (सांख्यकारिका-२१)