पथिकसर्पमारणन्यायः
एकदा एकस्य गृहं सर्पः प्रविष्टः । सः मनुष्यः चिन्तामग्नः अभवत् यत् तस्य सर्पस्य हननेन हिंसापापं प्राप्येत सर्पस्य मारणेनापि सः न मृतः चेत् कालान्तरे प्रतिकुर्यात् इति । एवं चिन्तयित्वा सः एकम् उपायं कल्पितवान् । गृहाद् बहिरागत्य सः मार्गे गच्छन्तम् एमं पथिकम् अन्तः बाहूय सर्पं मारयितुम् उक्तवान् । तस्य मनसि एवं चिन्तनम् आसीत् यत् अयं पथिकः सर्पं मारयेत् चेत् सर्पहत्यापापं स एव
प्राप्नुयात् । सर्पः न मृतः चेत् तस्य पथिकस्य विषये एव प्रतीकारबुद्धिं धारयेत् इति । सर्पः मृतः पीडा च परिहृता । एवं सर्वोऽपि स्वयम् अधिकां हानिम् अप्राप्य कार्यं साधयितुं प्रयतते इति अस्य भावः ।