परमहंसा नाम संवर्तक आरुणि श्वेतकेतु दुर्वास ऋभु निदाघ जडभरत दत्तात्रेय रैवतक प्रभृतयः । - जाबालोपनिषत् ६-१

संवर्तक, आरुणि, श्वेतकेतु, दुर्वास, ऋभु, निदाघ, जडभरत, दत्तात्रेय, रैवतकादयः परमहंसाः ।

कुटीचकाः, बहूदकाः, हंसाः, परमहंसाश्च इति चतुर्धा विभज्यन्ते संन्यासिनः । चत्वारोऽप्येते संन्यासिन एव ।
कुटीचकाः, बहूदकाः, हंसाश्च इति एते त्रयः संन्यासिनः साधनपरायणाः वेदान्तचिन्तननिष्ठाश्च भवन्ति । परमहंसाः
पुनः ब्रह्मज्ञानिपुङ्गवाः । एते गुणातीताः विद्वत्संन्यासिनः, एते एव ब्रह्मनिष्ठाश्च ॥

तत्त्वमसि, अहं ब्रह्मास्मि इत्यादिमहावाक्यानाम् अर्थम् स्वानुभवे दृष्टवन्तः एते धीराः । इमे परमहंसाः कृतकृत्याः
ब्रह्मनिष्ठाश्च । एतेषु केषाञ्चित् नामानि अत्र स्मर्यन्ते । संवर्तकः, आरुणिः श्वेतकेतुः दुर्वासाः, ऋभुः निदाघः,
जडभरतः, दत्तात्रेय, रैवतकः इत्यादयः परमहंसपुङ्गवत्वेन सुप्रसिद्धाः । एते हि अवधूतपुङ्गवाश्च भवन्ति ॥

"https://sa.wikiquote.org/w/index.php?title=परमहंसा_नाम_संवर्तक...&oldid=16391" इत्यस्माद् प्रतिप्राप्तम्