सुभाषितम्

परस्परविरोधे तु वयं पञ्च शतं च ते ।
परैः परिभवे प्राप्ते वयं पञ्चोत्तरं शतम् ॥




तात्पर्यम्

धर्मराजेन एवम् उच्यते - वयं पाण्डवाः पञ्च, कौरवाः शतं जनाः । परस्परकलहावसरे वयं भिन्नगणीयाः । किन्तु अन्यः कोपि अस्मदुपरि आक्रमणं यदा कुर्यात् तदा पञ्चोत्तरं शतं जनाः अपि मिलित्वा एव शत्रून् सम्मुखीकुर्मः ।

"https://sa.wikiquote.org/w/index.php?title=परस्परविरोधे_तु...&oldid=14943" इत्यस्माद् प्रतिप्राप्तम्