पराञ्चि खानि व्यतृणत्...

इन्द्रियाणां स्वभावः

पराञ्चि खानि व्यतृणत् स्वयम्भूः, तस्मात् पराङ् पश्यति नान्तरात्मन् । - काठकोपनिषत् २-१-१

परमेश्वरः इन्द्रियाणि पराङ्मुखान्येव सृष्टवानस्ति । तस्मादेव हेतोः सर्वः पुरूषः
परागेव पश्यति, न तु अन्तरात्मानम् ॥

आत्मा न इन्द्रियग्राह्यः, सूक्ष्मत्वात् । बहिर्मुखानि इन्द्रियाणि, केवलानि स्थूलानि
वस्तूनि गृह्णन्ति । कुत एतत् ? इन्द्रियाणां सृष्टिरेव एवम्, तेषां रचना एव एवमस्ति,
इन्द्रियाणां स्वभाव एव एषः ॥

तस्मात् नेत्र-श्रोत्र-घ्राण –जिह्वा – चर्माख्यानि पञ्च ज्ञानेन्द्रियाणि इमानि, बाह्यानि
रूपशब्दवासनारसस्पर्शाख्यानि वस्तूनि जानन्ति । एतानि वस्तूनि स्थूलाः पदार्था
भवन्ति । स्थूलान् पदार्थान् विज्ञातुम् इन्द्रियाणि समर्थानि भवेयुः, नतु इन्द्रियैः
आत्मानं द्र्ष्टुं शक्यते । बहिर्मुखानाम् इद्रियाणां स्वभाव एव एषः। तस्मात्, पराग्भूतानि
इन्द्रियाणि विहाय धीरैः अध्यात्मसाधकैः सुसंस्कृतेन अन्तरिन्द्रियेण अन्तः करणेन
आत्मानं ज्ञातुं प्रयतितव्यम् । शास्त्राचार्योपदेशश्रवणेन विचारेण विवेकेन आत्मा विज्ञातव्यः ॥