परीक्ष्य लोकान् कर्मचितान् ब्राह्मणः निर्वेदमायात् नास्ति
अकृतः कृतेन । - मुण्डकोपनिषत् १-२-१२

कर्मचितान् लोकान् परीक्ष्य तत्त्वजिज्ञासुः स्वर्गादिलोकेभ्यः विरक्तो
भवेत् । केवलकर्मभ्यः मोक्षः न प्राप्यते इति विवेकिना जिज्ञासुना
सदा अनुसन्धातव्यम् ॥

मुमुक्षुसाधकेभ्यः हितोपदेशः करोति अयं मन्त्रः । वैराग्यमेव आत्मज्ञानस्य
प्रधानं द्वारम् । वैराग्यहीनस्य आत्मज्ञानं नैव लभ्यते । न हि वैराग्यं
नाम केवलं विषयभोगत्यागः । पत्नी पुत्र धन गृहादित्यागमात्रेण वैराग्यं
प्राप्तमिति न मन्तव्यम् । न हि ब्रह्मजिज्ञासां विना वस्तुत्यागमात्रं वैराग्यम् ॥

किं तु, विवेकेन विषयभोगस्य असारताज्ञानमेव वैराग्यम् । कृत्वा प्राप्तिः
सर्वापि अनित्या एव । एवं विचारेण विवेकेन यो जानाति स एव ब्रह्मविद्यां
प्राप्तुं समर्थो भवति । “केवलकर्मभिः मुक्तिर्न लभ्यते” इत्येव हि मुमुक्षोः
बीजमन्त्रः । एवं ज्ञात्वा विरक्तस्यैव आत्मज्ञानमहासौधे प्रवेशः, नेतरस्य ॥

"https://sa.wikiquote.org/w/index.php?title=परीक्ष्य_लोकान्...&oldid=16572" इत्यस्माद् प्रतिप्राप्तम्