सुभाषितम्

पल्लवतः कल्पतरोरेष विशेषः करस्य ते वीर ।
भूषयति कर्णमेकः परस्तु कर्णं तिरस्कुरुते ॥

pallavataḥ kalpatarōrēṣa viśēṣaḥ karasya tē vīra ।
bhūṣayati karṇamēkaḥ parastu karṇaṁ tiraskurutē ।।

पदच्छेदः

पल्लवतः, कल्पतरोः, एषः, विशेषः, करस्य, ते, वीर, भूषयति, कर्णम्, एकः, परः, तु, कर्णं, तिरस्कुरुते ।


तात्पर्यम्

कल्पतरोः पल्लवापेक्षया वीरस्य करः विशिष्टः अस्ति । कल्पतरोः पल्लवः एकं कर्णं भूषयति । वीरस्य करः कर्णसदृशमपि राजानम् अपि तिरस्करोति, अर्थात् कर्णस्य अपेक्षया अधिकं ददाति वीरः ।

"https://sa.wikiquote.org/w/index.php?title=पल्लवतः_कल्पतरोरेष...&oldid=16808" इत्यस्माद् प्रतिप्राप्तम्