पाठयेम संस्कृतम् ...


पाठयेम संस्कृतं जगति सर्वमानवान् ।
प्रापयेम भारतं सपदि परमवैभवम् ॥

व्यक्तियोजकत्वमेव नायकत्वलक्षणम्
धर्मसेवकत्वमेव शास्त्रतत्त्वचिन्तनम्
स्नेह-शक्ति-शील-शौर्य-देशभक्ति-भूषितम्
साधयेम शीघ्रमेव कार्यकर्तृमण्डलम् ॥

हिन्दुबन्धुमेलनेन सर्वदोषनाशनम्
उच्चनीचजातिराज्य-भेदभाववारणम्
सामरस्यरक्षणेन शान्तिपूर्णजीवनम्
कालयोग्यमेतदेव मोक्षदायिदर्शनम् ॥

जीवनस्य कार्यमेव राष्ट्रकर्मसाधना
सङ्घशक्तिवर्धनाय दिव्यभव्ययोजना
व्यक्तिरस्तु वर्तिकेति मामकीनभावना
साधितास्तु माधवस्य विश्वविजयकामना ॥




"https://sa.wikiquote.org/w/index.php?title=पाठयेम_संस्कृतम्_...&oldid=15377" इत्यस्माद् प्रतिप्राप्तम्