केचन जनाः कार्यकरणसमये अदृश्या भवन्ति परन्तु भोजनकाले एव धावित्वा आगच्छन्ति । एते पात्रेसमिताः कथ्यन्ते । एवं ये कार्यकारिणो न भवन्ति फलं प्राप्तुम्च् इच्छन्ति तेषां विषये अस्य प्रयोगो भवति ।

(व्याकरणशास्त्रानुसारं पात्रेसमिताः इति कश्चन निपातः । पात्रेसमितादयश्च इति सूत्रेण (२- १-४८) क्षेपार्थे पात्रेसमितादिशब्दाः निपाताः भवन्ति । भोजनसमये एव संगताः न तु कार्ये इति वैयाकरणसिद्धान्तकौमुद्यां अस्य विवरणं दृश्यते – समासप्रकरणॆ तत्पुरुषसमासे ।)

"https://sa.wikiquote.org/w/index.php?title=पात्रेसमितन्यायः&oldid=10387" इत्यस्माद् प्रतिप्राप्तम्