पादुकासहस्रे चित्रपद्धतिस्त्रिंशी (०४ गूढचतुर्थम्)

४. पद्मेव मङ्गलसरित्पारं संसारसन्ततेः । दुरितक्षेपिका भूयात् पादुका रङ्गभूपतेः ॥

पदविभागः सम्पाद्यताम्

पद्मा, इव, मङ्गल-सरित्, पारम्, संसार-सन्ततेः, दुरित-क्षेपिका, भूयात्, पादुका, रङ्ग-भूपतेः ॥

प्रतिपदार्थः सम्पाद्यताम्

मङ्गलसरित् – मङ्गलानां नदी, संसारसन्ततेः – सन्तन्यमानस्य संसृतेः, पारम् – अन्त्यं रङ्गभूपतेः – रङराजस्य,
पादुका – पादरक्षा, पद्मा इव – लक्ष्मीः इव, दुरितक्षेपिका – अस्माकं पापानां क्षेपयित्री, भूयात् – भवतु ।

तात्पर्यम् सम्पाद्यताम्

आश्रितेभ्यः इह लोके धर्मार्थकामरूपमङ्गलानां प्रवाहानेव ददती, अनुवर्तमानायाः संसृतेः तान् मोचयितुं समर्था
परत्र मोक्षदायिनी च इयं रङ्गनाथस्य पादुका साक्षात् लक्ष्मीः इव अस्ति । सा अस्मान् पापेभ्यो मोचयतु । एवं च
त्रिवर्गफलाय वा अपवर्गाय वा बन्धकेभ्यः पापेभ्यः अस्मान् मोचयितुं समर्थे लक्ष्मीः तथा पादुका च ।

विशेषः सम्पाद्यताम्

अस्मिन् श्लोके ‘गूढचतुर्थम्’ इति शब्दचित्रं वर्तते । अर्थात् चतुर्थपादे विद्यमानानि अक्षराणि सर्वाणि प्रथमद्वितीयतृतीयपादेषु
उपलभ्यन्ते । एवमेव गूढप्रथमम् इत्यादि शब्दचित्राणि अपि सन्ति ।