पादुकासहस्रे चित्रपद्धतिस्त्रिंशी (०६ क्रियावञ्चनम्)

६. प्रतिभायाः परं तत्त्वं बिभ्रती पद्मलोचनम् । पश्चिमायामवस्थायां पादुके मुह्यतो मम ॥

पदविभागः सम्पाद्यताम्

प्रतिभायाः, परम्, तत्त्वम्, बिभ्रती, पद्मलोचनम्, पश्चिमायाम्, अवस्थायाम्, पादुके, मुह्यतः, मम ।

प्रतिपदार्थः सम्पाद्यताम्

पादुके! – हे पादुके!, परं तत्त्वम् – परमं तत्त्वं, पद्मलोचनं - पुण्डरीकाक्षं श्रीमन्नारायणं, बिभ्रती – धरमाणा,
पश्चिमायाम् अवस्थायाम् - अन्तिमायाम् अवस्थायाम् (मरणकाले), मुह्यतः – मोहं गतस्य, मम – मे,
प्रतिभायाः – (त्वं) प्रत्यक्षं भूयाः ।

तात्पर्यम् सम्पाद्यताम्

'मम मरणकाले यदा सर्वेषाम् इन्द्रियाणां, मनसश्च पाटवं नष्टम्, उत्तरक्षणे च मोहवशं गतः भवेयम् अहं, तदा
सुन्दरं पद्मेक्षणं श्रीमन्नारायणं वहन्ती त्वं मम मनसि आविर्भूयाः' इति भगवद्विषयिणीम् अन्तिमस्मृतिं कविः
अत्र प्रार्थयते ।

विशेषः सम्पाद्यताम्

‘क्रियावचनप्रहेलिका’ इति शब्दचित्रम् अत्र । श्लोके ‘प्रतिभायाः’ इति क्रियापदं षष्ठ्यन्तं पदमिव भासते । अतः
क्रिया एषा इति स्पष्टं न ज्ञायमाना पठितारं वञ्चयति इत्यतः अस्य क्रियावचनप्रहेलिका इति नाम ।