पादुकासहस्रे चित्रपद्धतिस्त्रिंशी (०७ प्रहेलिकाभेदः)

७. यामः श्रयति यां धत्ते यैन यात्याय याच्च या ।
यास्य मानाय यै वान्या सा मामवतु पादुका ॥

पदविभागः सम्पाद्यताम्

याम्, अः, श्रयति, या, अम्, धत्ते, या, एन, याति, आय, या, आत्, च, या ।
या, अस्य, मानाय, या, ए, वान्या, सा, माम्, अवतु, पादुका ॥
(‘अकारो विष्णुवाचकः’ इति निघण्टुः । तस्य 'अ'शब्दस्य प्रथमादिसप्तम्येकवचनान्तानि
रूपाणि अत्र प्रयुक्तानि ।)

प्रतिपदार्थः सम्पाद्यताम्

अः – भगवान् विष्णुः, यां श्रयति – याम् आश्रयति, या अम् धत्ते – या तं वहति, या एन
याति – या विष्णुना सह (तस्य साहाय्येन) गच्छति, या आय – या विष्णोरर्थे एव जाता,
या आत् – या विष्णोः सकाशात् एव उद्भूता (यं विना यस्याः अस्तित्वं नास्ति), या अस्य
– या भगवतः, मानाय – पूजायै भवति, या ए – या भगवति, वान्या – सम्यक् भक्तिं कर्तुं
युक्ता च, सा पादुका, माम् अवतु – मां रक्षतु ।

तात्पर्यम् सम्पाद्यताम्

'पादुकायाः स्वरूपं, स्थितिः, व्यापारश्च भगवदधीनः अस्ति । पारार्थ्येन पारतन्त्र्येण च सा
भगवतः अन्तरङ्गकैङ्कर्योपयोगिवस्तुषु अन्यतमा, तस्य आराधने उपयोगम् अर्हति । एषा तस्य
उपयोगार्थमेव यथा भवति, तद्वत् अहमपि भवेयं यथा, तथा तत्त्वज्ञानेन तदुपयोगिना अनुष्ठानेन
च माम् अनुगृह्य पादुका मां रक्षतु' इति प्रार्थयते कविः ।

विशेषः सम्पाद्यताम्

अस्मिन् श्लोके प्रहेलिका नाम शब्दचित्रम् । अत्र विष्णुवाचकस्य अकारस्य सर्वविभक्तिरूपाणि
अन्यपदभ्रमं जनयन् सन्धिषु सुलभतया अभिज्ञातुम् अशक्यानि तिष्ठन्ति । अयमपि प्रहेलिकायाः
कश्चन प्रकारः ।