पादुकासहस्रे चित्रपद्धतिस्त्रिंशी (१८ षोडशदलपद्मबन्धः)

१८. पापाकूपारपालीपा त्रिपादीपादपादपा ।
कृपारूपा जपालापा स्वापा माऽपान्नृपाधिपा ॥

पदविभागः सम्पाद्यताम्

पाप-अकूपार-पाली-पा, त्रि-पादी-पाद-पादपा, कृपा-रूपा, जप-आलापा,
स्वापा, मा, अपात्, नृप-अधिपा ।

प्रतिपदार्थः सम्पाद्यताम्

पापाकूपारपालीपा – अघसमुद्राणां पङ्क्तिं पिबन्ती, कृपा-रूपा – दयास्वरूपा,
जप-आलापा – मन्त्रजपवत् शुद्धिं सम्पादयत् नाम यस्याः, स्वापा – सुलभतया
आप्तुं शक्या, नृप-अधिपा – राजराजेश्वरी, त्रि-पादी-पाद-पादपा – त्रिपाद्विभूतेः
अधिपस्य पादं रक्षन्ती (पादुका), मा – माम्, अपात् – अरक्षत् ।

तात्पर्यम् सम्पाद्यताम्

पादुका आश्रितानां समुद्रवत् पाररहितानि पापानि क्षणेन निपातुं समर्था ।
दयामूर्तिः सा । तस्याः नामसङ्कीर्तनम् अष्टाक्षरादिमन्त्रजपवत् सर्वपापानि
विनाश्य शुद्धिं जनयति । अपि च आश्रितैः सुलभतया आराधयितुं शक्या ।
भूमण्डलाद् आरभ्य अण्डाधिपतिं ब्रह्माणं यावत् ये राजानः तेषां सर्वेषाम्
अधिपा एषा परमपदनाथस्य पादुका तद्वत् कल्याणगुणैः उपेता, परमपापिनम्
अकिञ्चनं च मां केवलं मया कृतं ‘श्रीरङ्गनाथपादुका’ ‘श्रीरङ्गनाथपादुका’
इति तस्याः नामसङ्कीर्तनं व्याजीकृत्य, स्वदयाशक्तिसौलभ्यादिगुणान् प्रदर्श्य,
स्वविषये मम प्रीतिं जनयित्वा, अपारं मम पापसमुद्रं निपीय च, मोक्षोपाये
मां प्रवर्त्य, स्वमेव मम आराध्यवस्तु परिकल्प्य मां रक्षितवती । एवं कविः
पादुकायाः कृपां स्तुवन् स्वस्य धन्यतां परमं लाभं च प्रकटयति ।

विशेषः सम्पाद्यताम्

अस्य बन्धस्य ‘षोडशदलपद्मम्’ इति नाम । श्लोकस्य द्वयोः अर्धयोः सर्वत्र
समस्थानेषु स्थितं ‘पा’ इति अक्षरं समानम् । तत् पद्मस्य कर्णिकायां, विषमाक्षराणि
षोडशसु दलेषु च लिखित्वा गोमूत्रिकाक्रमेण पठनीयः श्लोकः । चित्रं पश्यत ।