पादुकासहस्रे चित्रपद्धतिस्त्रिंशी (१९ चतुरङ्गतुरङ्गपदबन्धः)
१९. स्थिरागसां सदाराध्या विहताकततामता ।
सत्पादुके सरासा मा रङ्गराजपदं नय ॥
पदविभागः
सम्पाद्यताम्स्थिर-आगसां, सदा, आराध्या, विहत-अक-तत-अमता, सत्-पादुके,
स-रासा, मा, रङ्गराज-पदं, नय ।
प्रतिपदार्थः
सम्पाद्यताम्सत्पादुके – हे सत्शब्दवाच्यस्य परब्रह्मणः पादुके! स्थिरागसाम् – अनाश्यपापानां
संसारिणां, सदा आराध्या – सदा पूजनीया, विहताकततामता – नाशितासुखानिष्टविस्तारा,
सरासा – मधुरध्वनिना च उपेता (त्वम्), मा – मां, रङ्गराजपदं – रङ्गराजस्य पादं / स्थानं,
नय – प्रापय ।
तात्पर्यम्
सम्पाद्यताम्हे सत्शब्दवाच्यस्य परब्रह्मणः पादुके! अपरिहरणीयापराधभाजां संसारिणां
संसारबन्धमोचनाय इह लोके, परत्र मुक्तदशायां पुरुषार्थभूता च त्वमेव आराध्या
असि । त्वां तथा प्रपन्नानाम् असुखानां विस्तारम् (असुखकारणं सञ्चितं कर्म),
भावीनि अनिष्टानि (प्रारब्धशेषम् अनुभोक्तुं तैः प्राप्तव्यानि भाविजन्मानि) च
त्वं नाशयसि । अर्थात् एतस्य देहस्य अवसाने प्रकृतिसम्बन्धं निश्शेषतया
निरस्य मोक्षं ददासि । तव आश्रितानां त्वं मधुरध्वनिभिः तेषां दुःखानि निवारयन्ती
इव अभयप्रदानं करोषि । तादृशी त्वं भगवत्प्राप्तये त्वरमाणं मां क्षिप्रं तस्य
परमपदनाथस्य पदं / पादं प्रापय ।
विशेषः
सम्पाद्यताम्अयं श्लोकः अग्रिमश्च उभौ चतुरङ्गतुरङ्गबन्धे निबद्धौ । श्लोकयोः स्थितानि
३२ अक्षराणि समानानि । अस्य श्लोकस्य चतुरः पादान् क्रमशः चतुरङ्गप्रकोष्ठेषु
लिखित्वा, यथा चतुरङ्गक्रीडायां तुरङ्गस्य गतिः भवति तथा क्रमसङ्ख्यानुसारेण
अक्षराणि पठ्यन्ते चेत् द्वितीयः श्लोकः लभ्यते । अस्यां क्रीडायां तुरगः वक्रगत्या
चलति इति जानीमः एव ।