पादुकासहस्रे चित्रपद्धतिस्त्रिंशी (२० चतुरङ्गतुरङ्गपदबन्धः)
२०. स्थिता समयराजत्पागतरा मादके गवि ।
दुरंहसां सन्नतादा साध्यातापकरासरा ॥
पदविभागः
सम्पाद्यताम्स्थिता, समय-राजत्-पा, आगत-रा, मादके, गवि, दुरंहसां, सन्नता-दा,
साध्य-अताप-करा, आसरा ।
प्रतिपदार्थः
सम्पाद्यताम्समयराजत्पा – समये - प्रतिज्ञायां स्थित्वा सत्सम्प्रदायानुष्ठानेन एव राजतः जनान् रक्षन्ती,
आगतरा – प्राप्तैश्वर्या, मादके – सन्तोषकरे, गवि – स्वरत्नकिरणमध्ये / सूर्यमण्डलस्य मध्ये,
स्थिता – संस्थिता, दुरंहसां – क्रूरपापवतां, सन्नतादा – तत्तत्पापफलानुरूपं नीचां दशाम् निवारयन्ती,
साध्यातापकरा – तापरहितदशाम् आपादयतः किरणान् बिभ्रती, आसरा – सर्वत्र सञ्चरणशीला
(‘त्वं मा रङ्गराजपदं नय’ इति पूर्वश्लोके स्थितैः पदैः वाक्यपूर्तिः ।)
तात्पर्यम्
सम्पाद्यताम्पादुका प्राचीनं सत्सम्प्रदायं स्वबुद्ध्या अन्यथा अकृत्वा, तमेव अनुतिष्ठतः साधुजनान्
अभिमानेन रक्षति । समस्तलोकैश्वर्यं स्वाधीनतया आश्रितानाश्रितविषये उपयुङ्क्ते ।
आनन्दकराणां स्वकिरणानां मध्ये स्थिता ज्योतिर्मयी चैषा सकलस्य जगतः ध्यानविषया ।
क्रूरपापानि कृत्वा अत्यन्तं नीचां दशाम् आपन्नानां स्वाश्रयणमात्रेण दुर्दशां निवारयति । ये
तां प्रपद्यन्ते तेषां स्वकिरणस्पर्शमात्रेण तापं निवारयति । सर्वलोकसञ्चरणसमर्था आश्रिताः
यत्र भवन्ति तत्र स्वयं गत्वा तान् रक्षति च । तादृशी त्वं माम् अत्युन्नतस्थानं रङ्गराजस्य पदं प्रापय ।
विशेषः
सम्पाद्यताम्अयं श्लोकः पूर्वतनश्च उभौ चतुरङ्गतुरङ्गबन्धे निबद्धौ । श्लोकयोः स्थितानि ३२
अक्षराणि समानानि । पूर्वतनश्लोकस्य (नवदशस्य) चतुरः पादान् क्रमशः चतुरङ्गप्रकोष्ठेषु
लिखित्वा, यथा चतुरङ्गक्रीडायां तुरङ्गस्य गतिः भवति तथा क्रमसङ्ख्यानुसारेण अक्षराणि
पठ्यन्ते चेत् द्वितीयः श्लोकः लभ्यते । अस्यां क्रीडायां तुरगः वक्रगत्या चलति इति जानीमः एव ।