पादुकासहस्रे चित्रपद्धतिस्त्रिंशी (२३ सर्वतोभद्रम्)

 
२३. पापादपापादपापाऽपादपाददपादपा ।
दपादपा पादपाद पादपाद दपादपा ॥

पापात्(५), अपापात्(६), अपापा(१), अ-पाद-पाद-द-पाद-पा(२),
द-पाद-पाप-अद-पाद-पाद-पा(४), दद-पात्-अपा(३) । {आवरणस्था संख्या पदानाम् अन्वयक्रमसूचिका ।}

प्रतिपदार्थः

सम्पाद्यताम्

अपापा – पापरहिता, अ-पाद-पाद-द-पाद-पा – अकारवाच्यस्य विष्णोः पादौ
ददतः पादान् किरणान् रक्षित्वा स्वसकाशे स्थापितवती, दद-पात्-अपा – आत्मानं
ये भगवच्चरणयोः समर्पयन्ति तेषां रक्षणार्थम् अभिषेकजलं वहन्ती च,
द-पाद-पाप-अद-पाद-पाद-पा – रक्षणं विदधतं पापम् अपनुदन्तं च पादं
वहतः विष्णोः पादौ रक्षन्ती (या पादुका सा), पापात् – एनसः, अपापात् – (माम्) अरक्षत् ।

तात्पर्यम्

सम्पाद्यताम्

एवं पादुका स्वस्य परमौदार्येण दयया च आश्रितानाम् इष्टार्थान् ददती तदुपर्यपि तान्
उपकरोति । सा भगवद्विषये स्वप्रेमातिशयेन जीवराशौ परमदयया च, सञ्चारकालेषु
सर्वलोकरक्षकयोः, जीवराशीनां क्षेमार्थम् एकैकोपायभूतयोः भगवच्चरणारविन्दयोः
कण्टकादिभिः कोऽपि क्लेशः यथा न स्यात् तथा तौ पाति । स्वयं पापरहिता भूत्वा
स्वसजातीयान् जीवान् पापैः क्लिश्यमानान् भगवदनुभवरहितान् च दृष्ट्वा तेषां पापापनोदने
यतते । तदर्थं परमपदात् भगवन्तं सञ्चारव्याजेन भुवम् आनीय स्वप्रकाशेन भगवतः पादौ प्रकाशयति ।

पूर्वतनश्लोके यथा, तथा अत्रापि “सर्वतोभद्रम्” इति शब्दचित्रम् । अस्मिन् श्लोके
केवलम् ‘अ’ ‘आ’ इति द्वौ स्वरौ ‘प’ ‘द’ इति द्वे व्यञ्जने च सन्ति । अस्य अक्षराणि
अनुलोमप्रतिलोमक्रमेण सर्वतोभद्रमिति चित्रे निवेश्य श्लोकः पठितुं शक्यः । (चित्रं पश्यत ।)